वांछित मन्त्र चुनें

पव॑स्व सोम दि॒व्येषु॒ धाम॑सु सृजा॒न इ॑न्दो क॒लशे॑ प॒वित्र॒ आ । सीद॒न्निन्द्र॑स्य ज॒ठरे॒ कनि॑क्रद॒न्नृभि॑र्य॒तः सूर्य॒मारो॑हयो दि॒वि ॥

अंग्रेज़ी लिप्यंतरण

pavasva soma divyeṣu dhāmasu sṛjāna indo kalaśe pavitra ā | sīdann indrasya jaṭhare kanikradan nṛbhir yataḥ sūryam ārohayo divi ||

पद पाठ

पव॑स्व । सो॒म॒ । दि॒व्येषु॑ । धाम॑ऽसु । सृ॒जा॒नः । इ॒न्दो॒ इति॑ । क॒लशे॑ । प॒वित्रे॑ । आ । सीद॑न् । इन्द्र॑स्य । ज॒ठरे॑ । कनि॑क्रदत् । नृऽभिः॑ । य॒तः । सूर्य॑म् । आ । अ॒रो॒ह॒यः॒ । दि॒वि ॥ ९.८६.२२

ऋग्वेद » मण्डल:9» सूक्त:86» मन्त्र:22 | अष्टक:7» अध्याय:3» वर्ग:16» मन्त्र:2 | मण्डल:9» अनुवाक:5» मन्त्र:22


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोम) हे परमात्मन् ! (दिव्येषु, धामसु) द्युलोकादि स्थानों में (सृजानः) उक्त सृष्टि को रचनेवाले आप (पवस्व) पवित्र करें। (इन्दो) हे प्रकाशस्वरूप ! (पवित्रे कलशे) पवित्र अन्तःकरणों में (आसीदन्) स्थिति करते हुए आप (इन्द्रस्य) कर्मयोगी की (जठरे) सत्तास्फूर्ति देनेवाली जठराग्नि में (कनिक्रदत्) गर्जते हुए (नृभिर्यतः) मनुष्यों के स्थान के विषय में आप (दिवि) द्युलोक में (सूर्य) सूर्य को (आरोहयः) आश्रय करें ॥२२॥
भावार्थभाषाः - परमात्मा सूर्य-चन्द्रमादिकों का निर्माण करता हुआ इस विविध प्रकार की रचना का निर्माण करके प्रजा को उद्योगी बनाने के लिये कर्मयोगी की कर्माग्नि को प्रदीप्त करता है ॥२२॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोम) हे परमात्मन् ! (दिव्येषु धामसु) द्युलोकादिस्थानेषु (सृजानः) उक्तसृष्टिरचयिता त्वं (पवस्व) पवित्रय। (इन्दो) हे प्रकाशस्वरूप परमात्मन् ! (पवित्रे, कलशे) पूतान्तःकरणेषु (आ, सीदन्) तिष्ठन् (इन्द्रस्य) कर्म्मयोगिनः (जठरे) सत्तास्फूर्तिदायके जठराग्नौ (कनिक्रदत्) गर्जन् (नृभिः, यतः) मनुष्यस्थानविषये त्वं (दिवि) द्युलोके (सूर्य्यं) रवेः (आरोहयः) आश्रयणं कुरु ॥२२॥